वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣢स्ये꣣द꣢मा꣣ र꣢जो꣣यु꣡ज꣢स्तु꣣जे꣢꣫ जने꣣ व꣢न꣣꣬ꣳ स्वः꣢꣯ । इ꣡न्द्र꣢स्य꣣ र꣡न्त्यं꣢ बृ꣣ह꣢त् ॥५८८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यस्येदमा रजोयुजस्तुजे जने वनꣳ स्वः । इन्द्रस्य रन्त्यं बृहत् ॥५८८॥

मन्त्र उच्चारण
पद पाठ

य꣡स्य꣢꣯ । इ꣣द꣢म् । आ꣣ । र꣡जः꣢ । आ । र꣡जः꣢꣯ । यु꣡जः꣢ । तु꣣जे꣢ । ज꣡ने꣢꣯ । व꣡न꣢꣯म् । स्व३रि꣡ति꣢ । इ꣡न्द्र꣢꣯स्य । र꣡न्त्य꣢꣯म् । बृ꣣ह꣢त् ॥५८८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 588 | (कौथोम) 6 » 3 » 1 » 3 | (रानायाणीय) 6 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में उस परमेश्वर के धन का वर्णन है।

पदार्थान्वयभाषाः -

(आरजः) लोकलोकान्तर पर्यन्त (युजः) सब पदार्थों से योग करनेवाले (यस्य) जिस परमेश्वर का (तुजे जने) शीघ्र कार्य करनेवाले कर्मयोगी मनुष्य को (वनम्) सेवनीय (स्वः) धन प्राप्त होता है, उस (इन्द्रस्य) परमेश्वर का (रन्त्यम्) रमणीय ऐश्वर्य (बृहत्) बहुत बड़ा है ॥३॥

भावार्थभाषाः -

संसार में जहाँ-तहाँ जो अनेक प्रकार का धन बिखरा पड़ा है, वह सब परमात्मा का ही है। पुरुषार्थी जन ही उसे प्राप्त करने के अधिकारी हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ तस्य परमेश्वरस्य धनं वर्णयति।

पदार्थान्वयभाषाः -

(आरजः२) लोकलोकान्तरपर्यन्तम् (युजः) सर्वैः पदार्थैः योगकारिणः (यस्य) परमेश्वरस्य (तुजे जने) क्षिप्रं कार्यकारिणि कर्मयोगिनि मनुष्ये। निघण्टौ (२।१५) तूतुजानः, तुज्यमानः, तूतुजिः इत्येतेषां क्षिप्रवाचिषु पाठात् तुज धातुः क्षिप्रार्थः। (वनम्) वननीयं सेवनीयम्। वन षण सम्भक्तौ। (स्वः) भौतिकमाध्यात्मिकं च धनम्, संसृज्यते इति शेषः, तस्य (इन्द्रस्य) परमेश्वरस्य (रन्त्यम्) रमणीयं ऐश्वर्यम् (बृहत्) महत् वर्तते ॥३॥

भावार्थभाषाः -

जगति यत्रतत्र यद् विविधं धनं विकीर्णमस्ति तत् सर्वं परमात्मन एव विद्यते। पुरुषार्थिन एव जनास्तत् प्राप्तुमर्हन्ति ॥३॥

टिप्पणी: १. ऋ० ६।३३।१, ऋषिः जाटिकायनः। २. सायणस्तु ‘रजोयुजः’ इति समस्तं मत्वा व्याचष्टे—‘रजोयुजः ज्योतिर्भिर्युक्तस्य’ इति। तत्तु पदकारविरुद्धम्, पदपाठे ‘आरजः’ इति समस्तपदस्वीकारात् ‘युजः’ इति च पृथक् प्रदर्शनात्।